forked from Samskrita-Bharati/zat.am
-
Notifications
You must be signed in to change notification settings - Fork 0
/
Copy pathsr100-sa.json
104 lines (104 loc) · 34.4 KB
/
sr100-sa.json
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
var s=
[
{"s":"","a":""},
{"s":"तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥","a":"तपस्वी वाल्मीकिः तपःस्वाध्यायनिरतं वाग्विदां वरं मुनिपुङ्गवं नारदं परिपप्रच्छ "},
{"s":"कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान्। धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:॥ ","a":"साम्प्रतम् अस्मिन् लोके कः नु गुणवान् ? कः च वीर्यवान् ? कः धर्मज्ञः कृतज्ञः सत्यवाक्यः दृढव्रतः च (अस्ति) ?"},
{"s":"चारित्रेण च को युक्तस्सर्वभूतेषु को हित:। विद्वान्क: कस्समर्थश्च कश्चैकप्रियदर्शन:॥","a":"कः च चारित्रेण युक्तः ? कः सर्वभूतेषु हितः ? कः विद्वान् ? कः च समर्थः ? कः च एकप्रियदर्शनः (अस्ति) ?"},
{"s":"आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयक:। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥","a":"कः आत्मवान् ? कः जितक्रोधः द्युतिमान् अनसूयकः (च अस्ति) ? संयुगे जातरोषस्य कस्य देवाः च बिभ्यति ?"},
{"s":"एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥","a":"महर्षे ! अहम् एतत् श्रोतुम् इच्छामि, हि मे परं कौतूहलम् (अस्ति)। त्वं (च) एवंविधं नरं ज्ञातुं समर्थः असि"},
{"s":"श्रुत्वा चैतत्ित्रलोकज्ञो वाल्मीकेर्नारदो वच:। श्रूयतामिति चामन्त्त्र्य प्रहृष्टो वाक्यमब्रवीत्॥","a":"त्रिलोकज्ञः नारदः वाल्मीकेः एतद् वचः श्रुत्वा ‘श्रूयताम्’ इति आमन्त्र्य च प्रहृष्टः (सन्) वाक्यम् अब्रवीत्"},
{"s":"बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणा:। मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतान्नर:॥","a":"(हे) मुने ! त्वया ये बहवः दुर्लभाः गुणाः कीर्तिताः तैः युक्तः नरः श्रूयताम् । अहं बुद्ध्वा वक्ष्यामि"},
{"s":"इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत:। नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी॥","a":"(हे मुने !) नियतात्मा महावीर्यः द्युतिमान् धृतिमान् वशी इक्ष्वाकुवंशप्रभवः रामः नाम जनैः श्रुतः (अस्ति)"},
{"s":"बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण:। विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु:॥","a":"(सः रामः) बुद्धिमान् नीतिमान् वाग्ग्मी श्रीमान् शत्रुनिबर्हणः विपुलांसः महाबाहुः कम्बुग्रीवः महाहनुः च (अस्ति।)"},
{"s":"महोरस्को महेष्वासो गूढजत्रुररिन्दमः। आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः॥","a":"(सः रामः) महोरस्कः महेष्वासः गूढजत्रुः अरिन्दमःआजानुबाहुः सुशिराः सुललाटः सुविक्रमः (च अस्ति)"},
{"s":"समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान्। पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः॥","a":"(सः रामः) समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् पीनवक्षाः विशालाक्षः लक्ष्मीवान् शुभलक्षणः ( च अस्ति)"},
{"s":"धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः। यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान्॥","a":"(स च रामः) धर्मज्ञः सत्यसन्धः प्रजानां हिते च रतः यशस्वी ज्ञानसम्पन्नः शुचिः वश्यः समाधिमान् च (अस्ति)"},
{"s":"प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः। रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥","a":"(स च रामः) प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः जीवलोकस्य रक्षिता धर्मस्य (च) परिरक्षिता (अस्ति)"},
{"s":"रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः॥","a":"(स च रामः) स्वस्य धर्मस्य स्वजनस्य च रक्षिता वेदवेदाङ्गातत्त्वज्ञः धनुर्वेदे च निष्ठितः (अस्ति)"},
{"s":"सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान्। सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः॥","a":"(स च रामः) सर्वशास्त्रार्थ-तत्त्वज्ञः स्मृतिमान् प्रतिभानवान् सर्वलोकप्रियः साधुः अदीनात्मा विचक्षणः (च अस्ति)"},
{"s":"सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः। आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः॥","a":"(रामः) सर्वदा सद्भिः समुद्रः इव अभिगतः (भवति)। (सः) आर्यः सर्वसमः सदा एव प्रियदर्शनः च (अस्ति)। "},
{"s":"स च सर्वगुणोपेत: कौसल्यानन्दवर्धन:। समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव॥","a":" सर्वगुणोपेतः सः कौसल्यानन्दवर्धनः च (अपि अस्ति)। गाम्भीर्ये (सः) समुद्रः इव, धैर्येण हिमवान् इव ( च अस्ति)"},
{"s":"विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः। कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः॥","a":"(सः) वीर्ये विष्णुना सदृशः सोमवत् प्रियदर्शनः ( च अस्ति)। (सः) क्रोधे कालाग्निसदृशः, क्षमया पृथिवीसमः ( च अस्ति)"},
{"s":"धनदेन समस्त्यागे सत्ये धर्म इवापरः। तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम्॥","a":"(सः) त्यागे धनदेन समः सत्ये अपरः धर्मः इव (च अस्ति)"},
{"s":"ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम्। प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया॥","a":" .. तम् एवंगुणसम्पन्नं सत्यपराक्रमं प्रकृतीनां हितैः युक्तं ज्येष्ठगुणैः युक्तं ज्येष्ठं सुतं रामं प्रकृतिप्रियकाम्यया .."},
{"s":"यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपति:। तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी॥","a":" .. महीपतिः दशरथः (तम् ) प्रीत्या यौवराज्येन संयोक्तुम् ऐच्छत् । अथ तस्य अभिषेकसम्भारान् दृष्ट्वा भार्या कैकयी .. "},
{"s":"पूर्वं दत्तवरा देवी वरमेनमयाचत। विवासनं च रामस्य भरतस्याभिषेचनम्॥","a":"पूर्वं दत्तवरा देवी रामस्य विवासनं भरतस्य अभिषेचनं च एनं वरम् अयाचत"},
{"s":"स सत्यवचनाद्राजा धर्मपाशेन संयत:। विवासयामास सुतं रामं दशरथ: प्रियम्॥","a":"सत्यवचनात् धर्मपाशेन संयतः सः राजा दशरथः प्रियं सुतं रामं विवासयामास"},
{"s":"स जगाम वनं वीर: प्रतिज्ञामनुपालयन्। पितुर्वचननिर्देशात्कैकेय्या: प्रियकारणात्॥","a":"सः वीरः पितुः वचननिर्देशात् कैकेय्याः प्रियकारणात् प्रतिज्ञाम् अनुपालयन् वनं जगाम"},
{"s":"तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह। स्नेहाद्विनयसम्पन्नस्सुमित्रानन्दवर्धन:॥","a":"विनयसम्पन्नः सुमित्रानन्दवर्धनः भ्रातुः दयितः प्रियः भ्राता लक्ष्मणः स्नेहात् सौभ्रात्रम् अनुदर्शयन् तं व्रजन्तं भ्रातरम् अनुजगाम ।।25-26।।"},
{"s":"भ्रातरं दयितो भ्रातुस्सौभ्रात्रमनुदर्शयन्। रामस्य दयिता भार्या नित्यं प्राणसमा हिता॥","a":"विनयसम्पन्नः सुमित्रानन्दवर्धनः भ्रातुः दयितः प्रियः भ्राता लक्ष्मणः स्नेहात् सौभ्रात्रम् अनुदर्शयन् तं व्रजन्तं भ्रातरम् अनुजगाम ।।25-26।।"},
{"s":"जनकस्य कुले जाता देवमायेव निर्मिता। सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधू:॥","a":"जनकस्य कुले जाता देवमाया इव निर्मिता रामस्य दयिता नित्यं प्राणसमा हिता भार्या सर्वलक्षणसम्पन्ना नारीणाम् उत्तमा वधूः सीता अपि यथा शशिनं रोहिणी (तथा) रामम् अनुगता ।।27-28।। "},
{"s":"सीताप्यनुगता रामं शशिनं रोहिणी यथा। पौरैरनुगतो दूरं पित्रा दशरथेन च॥","a":"जनकस्य कुले जाता देवमाया इव निर्मिता रामस्य दयिता नित्यं प्राणसमा हिता भार्या सर्वलक्षणसम्पन्ना नारीणाम् उत्तमा वधूः सीता अपि यथा शशिनं रोहिणी (तथा) रामम् अनुगता ।।27-28।।"},
{"s":"शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत्। गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्॥","a":"पौरैः पित्रा दशरथेन च दूरम् अनुगतः धर्मात्मा (रामः) श्रृङ्गवेरपुरे निषादाधिपतिं प्रियं गुहम् आसाद्य गङ्गाकूले सूतं व्यसर्जयत्।।28-29।।"},
{"s":"गुहेन सहितो रामो लक्ष्मणेन च सीतया। ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदका:॥","a":"गुहेन लक्ष्मणेन सीतया च सहितः रामः वनेन वनं गत्वा बहूदकाः नदीः तीर्त्वा भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य वने रम्यम् आवसथं कृत्वा ..।।30-31।।"},
{"s":"चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्। रम्यमावसथं कृत्वा रममाणा वने त्रय:॥","a":"गुहेन लक्ष्मणेन सीतया च सहितः रामः वनेन वनं गत्वा बहूदकाः नदीः तीर्त्वा भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य वने रम्यम् आवसथं कृत्वा ..।।30-31।।"},
{"s":"देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्। चित्रकूटं गते रामे पुत्रशोकातुरस्तथा॥","a":".. देवगन्धर्वसङ्काशाः ते त्रयः रममाणाः सुखं न्यवसन्। रामे चित्रकूटं गते पुत्रशोकातुरः .."},
{"s":"राजा दशरथस्स्वर्गं जगाम विलपन्सुतम्। मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजै:॥","a":"राजा दशरथः सुतं विलपन् स्वर्गं जगाम । तस्मिन् दशरथे गते तु वसिष्ठप्रमुखैः द्विजैः"},
{"s":"नियुज्यमानो राज्याय नैच्छद्राज्यं महाबल:। स जगाम वनं वीरो रामपादप्रसादक:॥","a":".. राज्याय नियुज्यमानः महाबलः भरतः राज्यं न ऐच्छत् (किन्तु) रामपादप्रसादकः सः वीरः वनं जगाम"},
{"s":"गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम्। अयाचद्भ्रातरं राममार्यभावपुरस्कृत:॥","a":"आर्यभावपुरस्कृतः सः (भरतः) गत्वा महात्मानं सत्यपराक्रमं भ्रातरं रामम् अयाचत्। "},
{"s":"त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्। रामोऽपि परमोदारस्सुमुखस्सुमहायशा:॥","a":"त्वम् एव राजा धर्मज्ञः इति वचः रामम् अब्रवीत् । परमोदारः सुमुखः सुमहायशाः महाबलः रामः अपि .."},
{"s":"न चैच्छत्पितुरादेशाद्राज्यं रामो महाबल:। पादुके चास्य राज्याय न्यासं दत्वा पुन:पुन:॥","a":"पितुः आदेशात् राज्यं न ऐच्छत्। राज्याय पादुके न्यासं दत्त्वा पुनः पुनः .."},
{"s":"निवर्तयामास ततो भरतं भरताग्रज:। स काममनवाप्यैव रामपादावुपस्पृशन्॥","a":"भरताग्रजः (रामः) भरतं (पुनः पुनः) निवर्तयामास । सः कामम् अनवाप्य रामपादौ उपस्पृशन् .."},
{"s":"नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया। गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रिय:॥","a":"रामागमनकाङ्क्षया नन्दिग्रामे राज्यम् अकरोत्।"},
{"s":"रामस्तु पुनरालक्ष्य नागरस्य जनस्य च। तत्रागमनमेकाग्रो दण्डकान्प्रविवेश ह॥","a":"भरते गते श्रीमान् सत्यसन्धः जितेन्द्रियः एकाग्रः रामः नागरस्य जनस्य च तत्र आगमनम् पुनः आलक्ष्य दण्डकान् प्रविवेश ह"},
{"s":"प्रविश्य तु महारण्यं रामो राजीवलोचनः। विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह॥","a":"राजीवलोचनः रामः महारण्यं प्रविश्य विराधं राक्षसं हत्वा शरभङ्गं सुतीक्ष्णम् अगस्त्यं तथा च अगस्त्यभ्रातरं ददर्श ह"},
{"s":"सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा। अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्॥","a":""},
{"s":"खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ। वसतस्तस्य रामस्य वने वनचरैस्सह॥","a":""},
{"s":"ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम्। स तेषां प्रतिशुश्राव राक्षसानां तथा वने॥","a":""},
{"s":"प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम्। ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्॥","a":""},
{"s":"तेन तत्रैव वसता जनस्थाननिवासिनी। विरूपिता शूर्पणखा राक्षसी कामरूपिणी॥","a":""},
{"s":"ततश्शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान्। खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्॥","a":""},
{"s":"निजघान वने रामस्तेषां चैव पदानुगान्। वने तस्मिन्निवसता जनस्थाननिवासिनाम्॥","a":""},
{"s":"रक्षसां निहतान्यासन्सहस्राणि चतुर्दश। ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः॥","a":""},
{"s":"सहायं वरयामास मारीचं नाम राक्षसम्। वार्यमाणस्सुबहुशो मारीचेन स रावणः॥","a":""},
{"s":"न विरोधो बलवता क्षमो रावण तेन ते। अनादृत्य तु तद्वाक्यं रावण: कालचोदित:॥","a":""},
{"s":"जगाम सह मारीचस्तस्याश्रमपदं तदा। तेन मायाविना दूरमपवाह्य नृपात्मजौ॥","a":""},
{"s":"जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्। गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्॥","a":""},
{"s":"राघवश्शोकसन्तप्तो विललापाकुलेन्द्रिय:। ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्॥","a":""},
{"s":"मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह। कबन्धन्नाम रूपेण विकृतं घोरदर्शनम्॥","a":""},
{"s":"तं निहत्य महाबाहुर्ददाह स्वर्गतश्च स:। स चास्य कथयामास शबरीं धर्मचारिणीम्॥","a":""},
{"s":"श्रमणीं धर्मनिपुणामभिगच्छेति राघव। सोऽभ्यगच्छन्महातेजाश्शबरीं शत्रुसूदन:॥","a":""},
{"s":"शबर्या पूजितस्सम्यग्रामो दशरथात्मज:। पम्पातीरे हनुमता सङ्गतो वानरेण ह॥","a":""},
{"s":"हनुमद्वचनाच्चैव सुग्रीवेण समागत:। सुग्रीवाय च तत्सर्वं शंसद्रामो महाबल:॥","a":""},
{"s":"आदितस्तद्यथावृत्तं सीतायाश्च विशेषत:। सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानर:॥","a":""},
{"s":"चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्। ततो वानरराजेन वैरानुकथनं प्रति॥","a":""},
{"s":"रामायावेदितं सर्वं प्रणयाद्दु:खितेन च। प्रतिज्ञातं च रामेण तदा वालिवधं प्रति॥","a":""},
{"s":"वालिनश्च बलं तत्र कथयामास वानर:। सुग्रीवश्शङ्कितश्चासीन्नित्यं वीर्येण राघवे॥","a":""},
{"s":"राघवप्रत्ययार्थं तु दुन्दुभे: कायमुत्तमम्। दर्शयामास सुग्रीवो महापर्वतसन्निभम्॥","a":""},
{"s":"उत्स्मयित्वा महाबाहु: प्रेक्ष्य चास्थि महाबल:। पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्॥","a":""},
{"s":"बिभेद च पुनस्सालान्सप्तैकेन महेषुणा। गिरिं रसातलं चैव जनयन्प्रत्ययं तथा॥","a":""},
{"s":"तत: प्रीतमनास्तेन विश्वस्तस्स महाकपि:। किष्किन्धां रामसहितो जगाम च गुहां तदा॥","a":""},
{"s":"ततोऽगर्जद्धरिवर: सुग्रीवो हेमपिङ्गल:। तेन नादेन महता निर्जगाम हरीश्वर:॥","a":""},
{"s":"अनुमान्य तदा तारां सुग्रीवेण समागत:। निजघान च तत्रैनं शरेणैकेन राघव:॥","a":""},
{"s":"ततस्सुग्रीववचनाद्धत्वा वालिनमाहवे। सुग्रीवमेव तद्राज्ये राघव: प्रत्यपादयत्॥","a":""},
{"s":"स च सर्वान्समानीय वानरान्वानरर्षभ:। दिश: प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्॥","a":""},
{"s":"ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली। शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्॥","a":""},
{"s":"तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्। ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्॥","a":""},
{"s":"निवेदयित्वाऽऽभिज्ञानं प्रवृत्तिं च निवेद्य च। समाश्वास्य च वैदेहीं मर्दयामास तोरणम्॥","a":""},
{"s":"पञ्च सेनाग्रगान्हत्वा सप्तमन्त्रिसुतानपि। शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्॥","a":""},
{"s":"अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्। मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया॥","a":""},
{"s":"ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्। रामाय प्रियमाख्यातुं पुनरायान्महाकपि:॥","a":""},
{"s":"सोऽधिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्। न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वत:॥","a":""},
{"s":"ततस्सुग्रीवसहितो गत्वा तीरं महोदधे:। समुद्रं क्षोभयामास शरैरादित्यसन्निभै:॥","a":""},
{"s":"दर्शयामास चात्मानं समुद्रस्सरितां पति:। समुद्रवचनाच्चैव नलं सेतुमकारयत्॥","a":""},
{"s":"तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे। राम: सीतामनुप्राप्य परां व्रीडामुपागमत्॥","a":""},
{"s":"तामुवाच ततो राम: परुषं जनसंसदि। अमृष्यमाणा सा सीता विवेश ज्वलनं सती॥","a":""},
{"s":"ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्। बभौ रामस्सम्प्रहृष्ट: पूजितस्सर्वदैवतै:॥","a":""},
{"s":"कर्मणा तेन महता त्रैलोक्यं सचराचरम्। सदेवर्षिगणं तुष्टं राघवस्य महात्मन:॥","a":""},
{"s":"अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्। कृतकृत्यस्तदा रामो विज्वर: प्रमुमोद ह॥","a":""},
{"s":"देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्। अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्वृत:॥","a":""},
{"s":"भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रम:। भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत्॥","a":""},
{"s":"पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च स:। पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा॥","a":""},
{"s":"नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघ:। रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान्॥","a":""},
{"s":"प्रहृष्टमुदितो लोकस्तुष्ट: पुष्टस्सुधार्मिक:। निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित:॥","a":""},
{"s":"न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषा: क्वचित्। नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रता:॥","a":""},
{"s":"न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तव:। न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा॥","a":""},
{"s":"न चापि क्षुद्भयं तत्र न तस्करभयं तथा। नगराणि च राष्ट्राणि धनधान्ययुतानि च॥","a":""},
{"s":"नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा। अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकै:॥","a":""},
{"s":"गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति। असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशा:॥","a":""},
{"s":"राजवंशान्शतगुणान्स्थापयिष्यति राघव:। चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति॥","a":""},
{"s":"दशवर्षसहस्राणि दशवर्षशतानि च। रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥ ","a":""},
{"s":"इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्। य: पठेद्रामचरितं सर्वपापै: प्रमुच्यते॥","a":""},
{"s":"एतदाख्यानमायुष्यं पठन्रामायणं नर:। सपुत्रपौत्रस्सगण: प्रेत्य स्वर्गे महीयते॥ ","a":""},
{"s":"स्यात्क्षत्रियो भूमिपतित्वमीयात्। जनश्च शूद्रोऽपि महत्वमीयात्॥","a":""}
];